Sukta 10.162
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । जातं यस्ते जिघांसति तमितो नाशयामसि ॥
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् । जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
yás te hánti patáyantaṃ niṣatsnúṃ yáḥ sarīsṛpám | jātáṃ yás te jíghāṃsati tám itó nāśayāmasi ||
Whoever strikes down what is taking wing, whoever harms what is still settling into life, whoever attacks the creeping growth—whoever seeks to kill what has been born for you, him from here we destroy.
यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् । जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । ते । हन्ति । पतयन्तम् । निसत्स्नुम् । यः । सरीसृपम् । जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yaḥ | te | hanti | patayantam | ni-satsnum | yaḥ | sarīsṛpam | jātam | yaḥ | te | jighāṃsati | tam | itaḥ | nāśayāmasi