Sukta 10.161
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान् । श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पति॑: श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥
śatáṃ jīva śarádo várdhamānaḥ śatáṃ hemantāñ chatám u vasantān | śatám indrāgnī savitā bṛ́haspátiḥ śatāyuṣā havíṣe máṃ punar duḥ ||
Live a hundred autumns, growing ever in increase; a hundred winters, and a hundred springs. Let Indra-Agni, Savitṛ, and Bṛhaspati restore him again and again by the oblation of a hundredfold life—renewing the course of his being.
श॒तम् । जी॒व॒ । श॒रदः॑ । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊँ॒ इति॑ । व॒स॒न्तान् । श॒तम् । इ॒न्द्रा॒ग्नी इति॑ । स॒वि॒ता । बृह॒स्पतिः॑ । श॒तऽआ॑युषा । ह॒विषा॑ । इ॒मम् । पुनः॑ । दुः॒ ॥शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ऊँ इति । वसन्तान् । शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शतआयुषा । हविषा । इमम् । पुनः । दुः ॥śatam | jīva | śaradaḥ | vardhamānaḥ | śatam | hemantān | śatam | oṃ iti | vasantān | śatam | indrāgnī iti | savitā | bṛhaspatiḥ | śata-āyuṣā | haviṣā | imam | punaḥ | duḥ