Sukta 10.161
आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव । सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥
आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागा॑: पुनर्नव । सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षु॒: सर्व॒मायु॑श्च तेऽविदम् ॥
āhārṣaṃ tvā́vidaṃ tvā punar ā́gāḥ punar-nava | sarvāṅga sárvaṃ te cákṣuḥ sárvam ā́yuś ca te ’vidaṃ ||
I have brought you back; I have found you again. Return anew, ever new. Whole in every limb—may all your seeing be restored, and all your life-force; all this I have recovered for you.
आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःनव । सर्वअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥ā | ahārṣam | tvā | avidam | tvā | punaḥ | ā | agāḥ | punaḥ-nava | sarva-aṅga | sarvam | te | cakṣuḥ | sarvam | āyuḥ | ca | te | avidam