Sukta 10.161
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । तमा हरामि निॠतेरुपस्थादस्पार्षमेनं शतशारदाय ॥
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व । तमा ह॑रामि॒ निॠ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥
yádi kṣitā́yur yádi vā páréto yádi mṛtyór ántikaṃ nī́ta evá | tám ā́ harāmi nírṛter upásthād áspārṣam enaṃ śatáśāradāya ||
If his appointed life is spent, or if he has gone beyond, or if he has been led close to Death—still I bring him back from the lap of Nirṛti. I restore him untouched, for a hundred autumns (a full span of life).
यदि॑ । क्षि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽइ॑तः । ए॒व । तम् । आ । ह॒रा॒मि॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥यदि । क्षितआयुः । यदि । वा । पराइतः । यदि । मृत्योः । अन्तिकम् । निइतः । एव । तम् । आ । हरामि । निःऋतेः । उपस्थात् । अस्पार्षम् । एनम् । शतशारदाय ॥yadi | kṣita-āyuḥ | yadi | vā | parāitaḥ | yadi | mṛtyoḥ | antikam | ni-itaḥ | eva | tam | ā | harāmi | niḥ-ṛteḥ | upa-sthāt | aspārṣam | enam | śata-śāradāya