Sukta 10.161
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥
muñcā́mi tvā havíṣā jī́vanāya kám ajñātayakṣmā́d utá rājayakṣmā́t | grāhír jagrā́ha yádi vā etád enaṃ tásyā indrāgnī prá mumuktam enam ||
With the offering-power I release you for life—from the unknown wasting sickness and from the royal consuming sickness. If the Seizer has seized him in this way, then from that grasp, O Indra-Agni, completely set him free.
मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातयक्ष्मात् । उत । राजयक्ष्मात् । ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥muñcāmi | tvā | haviṣā | jīvanāya | kam | ajñāta-yakṣmāt | uta | rāja-yakṣmāt | grāhi ḥ | jagrāha | yadi | vā | etat | enam | tasyāḥ | indrāgnī iti | pra | mumuktam | enam