Sukta 10.160
य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति । न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ । न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
yá uśatā́ mánasā sómam asmai sarvahṛdā́ devákāmaḥ sunóti | ná gā́ índras tásya párā dadāti praśastám íc cā́rum asmai kṛṇoti ||
Whoever, desiring the gods, presses Soma for him with a will that loves and with the whole heart—Indra does not give away his cows (rays of light) to another; rather he makes for that one what is admirable and beautiful in the being.
यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ । न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥यः । उशता । मनसा । सोमम् । अस्मै । सर्वहृदा । देवकामः । सुनोति । न । गाः । इन्द्रः । तस्य । परा । ददाति । प्रशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥yaḥ | uśatā | manasā | somam | asmai | sarva-hṛdā | deva-kāmaḥ | sunoti | na | gāḥ | indraḥ | tasya | parā | dadāti | pra-śastam | it | cārum | asmai | kṛṇoti