Sukta 10.160
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति । इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिर॒: श्वात्र्या॒ आ ह्व॑यन्ति । इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥
túbhyaṃ sutā́stúbhyam u sṓtvāsas tvā́ṃ gíraḥ śvā́tryā ā́ hvayanti | índredám adyá sávanaṃ juṣāṇó víśvasya vidvā́ṃ ihá pāhi sómam ||
For you are the pressings; for you indeed are the preparers—Śvātrya hymns call you. O Indra, accepting today this pressing with delight, knowing all, drink/guard the Soma here.
तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊँ॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ । इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥तुभ्यम् । सुताः । तुभ्यम् । ऊँ इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति । इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥tubhyam | sutāḥ | tubhyam | oṃ iti | sotvāsaḥ | tvām | giraḥ | śvātryāḥ | ā | hvayanti | indra | idam | adya | savanam | juṣāṇaḥ | viśvasya | vidvān | iha | pāhi | somam