Sukta 10.160
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च । इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तास॑: ॥
tīvrásyābhívayaso asyá pāhi sarvaráthā ví hárī ihá muñca | índra mā́ tvā́ yajámānāso anyé ní rīraman túbhyam imé sutā́saḥ ||
Guard this intense, forceful Soma; O Indra of all chariots, unharness your two bay steeds here. Let no other sacrificers draw you away—these pressings are for you.
ती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥तीव्रस्य । अभिवयसः । अस्य । पाहि । सर्वरथा । वि । हरी इति । इह । मुञ्च । इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥tīvrasya | abhi-vayasaḥ | asya | pāhi | sarva-rathā | vi | harī iti | iha | muñca | indra | mā | tvā | yajamānāsaḥ | anye | ni | rīraman | tubhyam | ime | sutāsaḥ