Sukta 10.16
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
kravyā́dam agníṃ prá hiṇomi dūráṃ yamárājño gacchatu ripravā́haḥ | iháivā́yam ítaro jā́tavedā devébhyo havyáṃ vahatu prajā́nan ||
I send far away the flesh-eating fire; let it go to the realm of King Yama, bearing away impurity. Here let this other Jātavedas remain, who knows, and carry the offering to the gods.
क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒हः । इ॒ह । ए॒व । अ॒यम् । इत॑रः । जा॒तऽवे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ॥क्रव्यअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमराज्ञः । गच्छतु । रिप्रवाहः । इह । एव । अयम् । इतरः । जातवेदाः । देवेभ्यः । हव्यम् । वहतु । प्रजानन् ॥kravya-adam | agnim | pra | hiṇomi | dūram | yama-rājñaḥ | gacchatu | ripra-vāhaḥ | iha | eva | ayam | itaraḥ | jāta-vedāḥ | devebhyaḥ | havyam | vahatu | pra-jānan