Sukta 10.16
इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥
इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥
imám agne camasáṃ mā́ ví jihvaraḥ priyó devā́nām utá sómyānām | eṣá yáś camasó devapā́nas tásmin devā́ amṛ́tā mādayante ||
O Agni, do not overturn this chalice; it is dear to the gods and dear to the Soma-powers. This is the cup of divine drinking; in it the immortal gods find their delight.
इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒रः॒ । प्रि॒यः । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् । ए॒षः । यः । च॒म॒सः । दे॒व॒ऽपानः॑ । तस्मि॑न् । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ॥इमम् । अग्ने । चमसम् । मा । वि । जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम् । एषः । यः । चमसः । देवपानः । तस्मिन् । देवाः । अमृताः । मादयन्ते ॥imam | agne | camasam | mā | vi | jihvaraḥ | priyaḥ | devānām | uta | somyānām | eṣaḥ | yaḥ | camasaḥ | deva-pānaḥ | tasmin | devāḥ | amṛtāḥ | mādayante