Sukta 10.16
यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् । तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् । तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥
yo a॒gniḥ kravya-at pra-viveśa vo gṛham imam paśyann itaram jāta-vedasam | taṃ harāmi pitṛ-yajñāya devaṃ sa gharmam invāt parame sadha-sthe ||
That Fire who has entered your house as the eater of mortal substance—beholding the other, Jātavedas, the knower of all births—him I set apart for the offering to the Fathers. May he urge on the warmth and ripening in the highest seat of the being.
यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽयज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥यः । अग्निः । क्रव्यअत् । प्रविवेश । वः । गृहम् । इमम् । पश्यन् । इतरम् । जातवेदसम् । तम् । हरामि । पितृयज्ञाय । देवम् । सः । घर्मम् । इन्वात् । परमे । सधस्थे ॥yaḥ | agniḥ | kravya-at | pra-viveśa | vaḥ | gṛham | imam | paśyan | itaram | jāta-vedasam | tam | harāmi | pitṛ-yajñāya | devam | saḥ | gharmam | invāt | parame | sadha-sthe