Sukta 10.16
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥
अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च । नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥
agnér várma pári góbhir vyayasva sáṃ prórṇuṣva pī́vasā médasā ca | nét tvā dhṛṣṇúr hárasā jarhṛṣāṇó dadhṛ́g vidhákṣyan paryaṅkháyāte ||
Spread around you Agni’s armor with the rays; wrap it close with richness and with strength-substance. Let not the fierce one, exulting in violence, tear you down and consume you by encircling assault.
अ॒ग्नेः । वर्म॑ । परि॑ । गोभिः॑ । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒णु॒ष्व॒ । पीव॑सा । मेद॑सा । च॒ । न । इत् । त्वा॒ । धृ॒ष्णुः । हर॑सा । जर्हृ॑षाणः । द॒धृक् । वि॒ऽध॒क्ष्यन् । प॒रि॒ऽअ॒ङ्खया॑ते ॥अग्नेः । वर्म । परि । गोभिः । व्ययस्व । सम् । प्र । ऊणुष्व । पीवसा । मेदसा । च । न । इत् । त्वा । धृष्णुः । हरसा । जर्हृषाणः । दधृक् । विधक्ष्यन् । परिअङ्खयाते ॥agneḥ | varma | pari | gobhiḥ | vyayasva | sam | pra | ūṇuṣva | pīvasā | medasā | ca | na | it | tvā | dhṛṣṇuḥ | harasā | jarhṛṣāṇaḥ | dadhṛk | vi-dhakṣyan | pari-aṅkhayāte