Sukta 10.16
यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥
यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
yát te kṛṣṇáḥ śakuná ā́tutoda pipī́laḥ sárpa utá vā́ śvā́padaḥ | agníṣ tád viśvā́d agádaṃ kṛṇotu sómaś ca yó brāhmaṇā́m ā́viveśa ||
Whatever dark bird has struck you, whatever ant, serpent, or wild-beast—may Agni make that wholly a non-poison, and Soma too, who enters into the Brahman-force: let the assault of the obscure be annulled into harmlessness.
यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒ऽतु॒तोद॑ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप॑दः । अ॒ग्निः । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः॑ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥यत् । ते । कृष्णः । शकुनः । आतुतोद । पिपीलः । सर्पः । उत । वा । श्वापदः । अग्निः । तत् । विश्वअत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्मणान् । आविवेश ॥yat | te | kṛṣṇaḥ | śakunaḥ | ātutoda | pipīlaḥ | sarpaḥ | uta | vā | śvāpadaḥ | agniḥ | tat | viśva-at | agadam | kṛṇotu | somaḥ | ca | yaḥ | brāhmaṇān | āviveśa