Sukta 10.16
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभि॑: । आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेष॒: सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥
áva sṛja púnaḥ agne pitṛ́bhyo yás ta ā́hutaś cárati svadhā́bhiḥ | ā́yur vásāna úpa vetu śéṣaḥ sáṃ gacchatāṃ tanvā́ jā́tavedas ||
Release him again, O Agni, downward and onward to the Fathers—him who, offered to you, moves in the powers of svadhā. Let the remaining life-force come near, clothing itself again; let the embodiment come together in harmony, O Jātavedas.
अव॑ । सृ॒ज॒ । पुनः॑ । अ॒ग्ने॒ । पि॒तृऽभ्यः॑ । यः । ते॒ । आऽहु॑तः । चर॑ति । स्व॒धाभिः॑ । आयुः॑ । वसा॑नः । उप॑ । वे॒तु॒ । शेषः॑ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । जा॒त॒ऽवे॒दः॒ ॥अव । सृज । पुनः । अग्ने । पितृभ्यः । यः । ते । आहुतः । चरति । स्वधाभिः । आयुः । वसानः । उप । वेतु । शेषः । सम् । गच्छताम् । तन्वा । जातवेदः ॥ava | sṛja | punaḥ | agne | pitṛ-bhyaḥ | yaḥ | te | āhutaḥ | carati | svadhābhiḥ | āyuḥ | vasānaḥ | upa | vetu | śeṣaḥ | sam | gacchatām | tanvā | jāta-vedaḥ