Sukta 10.16
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
ajó bhāgás tápasā táṃ tapasva táṃ te śócīs tapatu táṃ te arcíḥ | yā́s te śivā́s tanvò jā́tavedas tā́bhir vahainaṃ sukṛ́tām u lokám ||
The unaging portion—by tapas, kindle and intensify it; let your flame and your radiant ray heat it into purity. O Jātavedas, by those your gracious forms of force, carry him to the world of the well-made (the true doers).
अ॒जः । भा॒गः । तप॑सा॒ । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः । याः । ते॒ । शि॒वाः । त॒न्वः॑ । जा॒त॒ऽवे॒दः॒ । ताभिः॑ । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊँ॒ इति॑ । लो॒कम् ॥अजः । भागः । तपसा । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते । अर्चिः । याः । ते । शिवाः । तन्वः । जातवेदः । ताभिः । वह । एनम् । सुकृताम् । ऊँ इति । लोकम् ॥ajaḥ | bhāgaḥ | tapasā | tam | tapasva | tam | te | śociḥ | tapatu | tam | te | arciḥ | yāḥ | te | śivāḥ | tanvaḥ | jāta-vedaḥ | tābhiḥ | vaha | enam | su-kṛtām | oṃ iti | lokam