Sukta 10.16
सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥
सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
sū́ryaṃ cákṣur gacchatu vā́tam ātmā́ dyā́ṃ ca gaccha pṛthivī́ṃ ca dhármaṇā | apó vā gaccha yádi tátra te hitám óṣadhīṣu práti tiṣṭha śárīraiḥ ||
Let the seeing go to the Sun; let the life-breath go to the Wind. Go, by the law of your truth, to Heaven and to Earth. Or go to the Waters if there your placing is; in the plants take your stand again with the powers of embodiment.
सूर्य॑म् । चक्षुः॑ । ग॒च्छ॒तु॒ । वात॑म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म॑णा । अ॒पः । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥सूर्यम् । चक्षुः । गच्छतु । वातम् । आत्मा । द्याम् । च । गच्छ । पृथिवीम् । च । धर्मणा । अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥sūryam | cakṣuḥ | gacchatu | vātam | ātmā | dyām | ca | gaccha | pṛthivīm | ca | dharmaṇā | apaḥ | vā | gaccha | yadi | tatra | te | hitam | oṣadhīṣu | prati | tiṣṭha | śarīraiḥ