Sukta 10.16
शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्य॑: । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
śṛtáṃ yadā́ kárasi jā́tavedo áthem enaṃ pári dattāt pitṛ́bhyaḥ | yadā́ gácchāty ásunītim etā́m áthā devā́nāṃ vaśanī́r bhavāti ||
When, O Jātavedas, you have ripened him into readiness, then place him fully into the keeping of the Fathers. When he goes on this leading of the life-breath, then he becomes one who can be guided by the gods’ harmonizing will.
शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्यः॑ । य॒दा । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनीः । भ॒वा॒ति॒ ॥शृतम् । यदा । करसि । जातवेदः । अथ । ईम् । एनम् । परि । दत्तात् । पितृभ्यः । यदा । गच्छाति । असुनीतिम् । एताम् । अथ । देवानाम् । वशनीः । भवाति ॥śṛtam | yadā | karasi | jāta-vedaḥ | atha | īm | enam | pari | dattāt | pitṛ-bhyaḥ | yadā | gacchāti | asu-nītim | etām | atha | devānām | vaśa-nīḥ | bhavāti