Sukta 10.16
यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥
यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृध॑: । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥
yo a॒gniḥ kravya-vāhanaḥ pitṝn yakṣad ṛta-vṛdhaḥ | pra it oṃ iti havyāni vocati devebhyaś ca pitṛ-bhya ā ||
That Agni who bears the mortal offering, increaser of the Right, shall sacrifice to the Fathers; and he proclaims the oblations forward—to the Gods and also to the Fathers, calling them hither.
यः । अ॒ग्निः । क्र॒व्य॒ऽवाह॑नः । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ । प्र । इत् । ऊँ॒ इति॑ । ह॒व्यानि॑ । वो॒च॒ति॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृऽभ्यः॑ । आ ॥यः । अग्निः । क्रव्यवाहनः । पितॄन् । यक्षत् । ऋतवृधः । प्र । इत् । ऊँ इति । हव्यानि । वोचति । देवेभ्यः । च । पितृभ्यः । आ ॥yaḥ | agniḥ | kravya-vāhanaḥ | pitṝn | yakṣat | ṛta-vṛdhaḥ | pra | it | oṃ iti | havyāni | vocati | devebhyaḥ | ca | pitṛ-bhyaḥ | ā