Sukta 10.159
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः । इदं तदक्रि देवा असपत्ना किलाभुवम् ॥
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥
yenéndro havíṣā kṛtvýábhavad dyumnyùttamáḥ | idáṃ tád akri devā asápatnā kílā́bhuvam ||
By that offering-power by which Indra became the most luminous in victorious might—by that very force, O Gods, I accomplish this: truly I become without rival, without opposition.
येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः । इ॒दन्म् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्तमः । इदन्म् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम् ॥yena | indraḥ | haviṣā | kṛtvī | abhavat | dyumnī | ut-tamaḥ | idanm | tat | akri | devāḥ | asapatnā | kila | abhuvam