Sukta 10.159
मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् । उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥
máma putrā́ḥ śatru-háṇo átho me duhitā́ virā́ṭ | utā́ham asmi saṃjayā́ pátyau me ślóka uttamáḥ ||
My sons are slayers of the hostile forces; my daughter is wide-ruling in her stature. And I am wholly victorious; in my husband my word is supreme—so the household becomes a field of conquering truth.
मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् । उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ उ॒त्ऽत॒मः ॥मम । पुत्राः । शत्रुहनः । अथो इति । मे । दुहिता । विराट् । उत । अहम् । अस्मि । सम्जया । पत्यौ । मे । श्लोकः उत्तमः ॥mama | putrāḥ | śatru-hanaḥ | atho iti | me | duhitā | virāṭ | uta | aham | asmi | sam-jayā | patyau | me | ślokaḥ ut-tamaḥ