Sukta 10.159
अहं केतुरहं मूर्धाहमुग्रा विवाचनी । ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी । ममेदनु॒ क्रतुं॒ पति॑: सेहा॒नाया॑ उ॒पाच॑रेत् ॥
aháṃ ketúr aháṃ mūrdhā́ham ugrā́ vi-vā́canī | máma id ánu krátuṃ pátiḥ sehānā́yā upā́caret ||
I am the sign and the summit; I am the strong one, the one who speaks forth distinctly. Let the husband move in accord with my will and intention, approaching me who am steadfast—so the union follows the soul’s conscious law.
अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी । मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विवाचनी । मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपआचरेत् ॥aham | ketuḥ | aham | mūrdhā | aham | ugrā | vi-vācanī | mama | it | anu | kratum | patiḥ | sehānāyāḥ | upa-ācaret