Sukta 10.154
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात् ॥
ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यज॑: । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
yé yúdhyante pradháneṣu śū́rāso yé tanūtyájaḥ | yé vā sahásradakṣiṇās tā́ṃś cid evā́pi gacchatāt ||
Let him go indeed to those heroes who fight in the battles, who have offered up the body for the Truth, or who have given the thousandfold gift: to them let him attain.
ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ । ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ये । युध्यन्ते । प्रधनेषु । शूरासः । ये । तनूत्यजः । ये । वा । सहस्रदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥ye | yudhyante | pra-dhaneṣu | śūrāsaḥ | ye | tanū-tyajaḥ | ye | vā | sahasra-dakṣiṇāḥ | tān | cit | eva | api | gacchatāt