Sukta 10.154
ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः । पितॄन्तपस्वतो यम ताँश्चिदेवापि गच्छतात् ॥
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृध॑: । पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
yé cit pū́rva ṛtasā́pa ṛtávāna ṛtāvṛ́dhaḥ | pitṝ́ṃ tápasvato yama tā́ṃś cid evā́pi gacchatāt ||
Yama, let him go indeed to those ancient ones who were companions of ṛta, possessors of ṛta, increasers of ṛta—those Fathers who were rich in tapas: to them let him attain.
ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ । पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ये । चित् । पूर्वे । ऋतसापः । ऋतवानः । ऋतवृधः । पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥ye | cit | pūrve | ṛta-sāpaḥ | ṛta-vānaḥ | ṛtā-vṛdhaḥ | pitṝn | tapasvataḥ | yama | tān | cit | eva | api | gacchatāt