Sukta 10.154
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्ताँश्चिदेवापि गच्छतात् ॥
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः । तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
tápasā yé anādhṛ́ṣyās tápasā yé svàr yayúḥ | tápo yé cakriré máhas tā́ṃś cid evā́pi gacchatāt ||
Let him go indeed to those who by tapas are unassailable, who by tapas have gone to the Sun-world, who by tapas have fashioned the Vast: to them let him attain.
तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः । तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः । तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥tapasā | ye | ānādhṛṣyāḥ | tapasā | ye | svaḥ | yayuḥ | tapaḥ | ye | cakrire | mahaḥ | tān | cit | eva | api | gacchatāt