Sukta 10.154
सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
sóma ékebhyaḥ pavate ghṛtám éka upā́sate | yébhyo mádhu pradhā́vati tā́ṃś cid evā́pi gacchatāt ||
Let him go indeed to those for whom Soma flows—some as clarified light, some as an offering to be approached—those to whom the sweetness runs forth: to them let him attain.
सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते । येभ्यः । मधु । प्रधावति । तान् । चित् । एव । अपि । गच्छतात् ॥somaḥ | ekebhyaḥ | pavate | ghṛtam | eke | upa | āsate | yebhyaḥ | madhu | pra-dhāvati | tān | cit | eva | api | gacchatāt