Sukta 10.152
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्माँ अभिदासत्यधरं गमया तमः ॥
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ॥
ví na indra mṛ́dho jahí nīcā́ yaccha pṛtanyatáḥ | yó asmā́m abhídāsaty ádharaṃ gamayā támaḥ ||
O Indra, scatter the assaults against us; thrust down the fighter. Whoever seeks to overpower us—send him downward into the lower darkness.
वि । नः॒ । इ॒न्द्र॒ । मृधः॑ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रम् । ग॒म॒य॒ । तमः॑ ॥वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः । यः । अस्मान् । अभिदासति । अधरम् । गमय । तमः ॥vi | naḥ | indra | mṛdhaḥ | jahi | nīcā | yaccha | pṛtanyataḥ | yaḥ | asmān | abhi-dāsati | adharam | gamaya | tamaḥ