Sukta 10.152
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥
ví rákṣo ví mṛ́dho jahí ví vṛtrásya hanū́ rujá | ví manyúm indra vṛtrahan amítrasya abhídāsataḥ ||
Scatter the dark forces, scatter the assaults; strike them down. Break the jaws of the Obstructor. O Indra the Vṛtra-slayer, disperse the wrath of the hostile one who seeks to overpower us.
वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ । वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनू इति । रुज । वि । मन्युम् । इन्द्र । वृत्रहन् । अमित्रस्य । अभिदासतः ॥vi | rakṣaḥ | vi | mṛdhaḥ | jahi | vi | vṛtrasya | hanūiti | ruja | vi | manyum | indra | vṛtra-han | amitrasya | abhi-dāsataḥ