Sukta 10.152
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्र॑: पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥
svastidā́ viśáspátir vṛtrahā́ vimṛdhó vaśī́ | vṛ́ṣendráḥ púra etu naḥ somapā́ abhayáṃkaraḥ ||
The giver of well-being, lord of the peoples—Vṛtra-slayer, masterful remover of assaults—let the Bull Indra go before us. Soma-drinker, maker of fearlessness, lead our advance.
स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी । वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥स्वस्तिदाः । विशः । पतिः । वृत्रहा । विमृधः । वशी । वृषा । इन्द्रः । पुरः । एतु । नः । सोमपाः । अभयम्करः ॥svasti-dāḥ | viśaḥ | patiḥ | vṛtra-hā | vi-mṛdhaḥ | vaśī | vṛṣā | indraḥ | puraḥ | etu | naḥ | soma-pāḥ | abhayam-karaḥ