Sukta 10.152
शास इत्था महाँ अस्यमित्रखादो अद्भुतः । न यस्य हन्यते सखा न जीयते कदा चन ॥
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥
śā́sa itthā́ mahā́m asy amitra-khādó ádbhutaḥ | ná yásya hanyáte sakhā́ ná jī́yate kadā́ caná ||
O Ruler-Power, thus you are great—wonderful, a devourer of hostile forces. He whose comrade you are is not struck down, nor is he ever conquered.
शा॒सः । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽखा॒दः । अद्भु॑तः । न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जीय॑ते । कदा॑ । च॒न ॥शासः । इत्था । महान् । असि । अमित्रखादः । अद्भुतः । न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥śāsaḥ | itthā | mahān | asi | amitra-khādaḥ | adbhutaḥ | na | yasya | hanyate | sakhā | na | jīyate | kadā | cana