Sukta 10.150
अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे । अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑य॒: समी॑धिरे । अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥
agnír devó devā́nām abhavat puróhito ’gníṃ manuṣyā́ ṛ́ṣayaḥ samī́dhire | agníṃ mahó dhána-sātāv aháṃ huve mṛḷīkáṃ dhána-sātaye ||
Agni, the god, became the priest set in front for the gods; the human seers kindled Agni. That great Agni I call for the winning of plenitude—Agni who is healing grace—for the winning of plenitude.
अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ । अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥अग्निः । देवः । देवानाम् । अभवत् । पुरःहितः । अग्निम् । मनुष्याः । ऋषयः । सम् । ईधिरे । अग्निम् । महः । धनसातौ । अहम् । हुवे । मृळीकम् । धनसातये ॥agniḥ | devaḥ | devānām | abhavat | puraḥ-hitaḥ | agnim | manuṣyāḥ | ṛṣayaḥ | sam | īdhire | agnim | mahaḥ | dhana-sātau | aham | huve | mṛḷīkam | dhana-sātaye