Sukta 10.150
अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे । अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥
अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्न॒: कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥
agnír átriṃ bharád-vājaṃ gáviṣṭhiraṃ prā́vann aḥ káṇvaṃ trasádasyum ā́have | agníṃ vásiṣṭho havate puróhito mṛḷīkā́ya puróhitaḥ ||
Agni protected Atri, Bharadvāja, and Gaviṣṭhira; he protected Kaṇva and Trasadasyu in the call of battle. Vasiṣṭha invokes Agni, the priest set in front, for our healing grace—the priest set in front.
अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे । अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥अग्निः । अत्रिम् । भरत्वाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आहवे । अग्निम् । वसिष्ठः । हवते । पुरःहितः । मृळीकाय । पुरःहितः ॥agniḥ | atrim | bharat-vājam | gaviṣṭhiram | pra | āvat | naḥ | kaṇvam | trasadasyum | āhave | agnim | vasiṣṭhaḥ | havate | puraḥ-hitaḥ | mṛḷīkāya | puraḥ-hitaḥ