Sukta 10.15
ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥
ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विद॒: स्तोम॑तष्टासो अ॒र्कैः । आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भि॑: ॥
yé tātṛṣúr devatrā́ jéhamānā hotrā-vídaḥ stóma-taṣṭāso arkáiḥ | ā́gne yāhi suvidátrebhir arvā́ṅ satyáiḥ kavyáiḥ pitṛ́bhir gharmasádbhiḥ ||
Those who have grown strong toward the gods, ardent in movement, knowers of the offering-word, who have fashioned hymns with inspired chants—O Agni, come hither with the well-finding, true, seer-ancestors who sit by the glowing heat.
ये । त॒तृ॒षुः । दे॒व॒त्रा । जेह॑मानाः । हो॒त्रा॒ऽविदः॑ । स्तोम॑ऽतष्टासः । अ॒र्कैः । आ । अ॒ग्ने॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥ये । ततृषुः । देवत्रा । जेहमानाः । होत्राविदः । स्तोमतष्टासः । अर्कैः । आ । अग्ने । याहि । सुविदत्रेभिः । अर्वाङ् । सत्यैः । कव्यैः । पितृभिः । घर्मसत्भिः ॥ye | tatṛṣuḥ | devatrā | jehamānāḥ | hotrāvidaḥ | stoma-taṣṭāsaḥ | arkaiḥ | ā | agne | yāhi | su-vidatrebhiḥ | arvāṅ | satyaiḥ | kavyaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ