Sukta 10.15
ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥
ये न॒: पूर्वे॑ पि॒तर॑: सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः । तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भि॑: प्रतिका॒मम॑त्तु ॥
yé naḥ pū́rve pitáraḥ somyā́so ’nū́hire soma-pī́thaṃ vásiṣṭhāḥ | tébhir yamáḥ saṃrarāṇó havī́ṃṣy uśán uśádbhiḥ prati-kā́mam attu ||
Those former Fathers of ours who followed the Soma-drinking, O Vasiṣṭhas—together with them may Yama, rejoicing, partake of the offerings, desiring with the desirers, according to each true need.
ये । नः॒ । पूर्वे॑ । पि॒तरः॑ । सो॒म्यासः॑ । अ॒नु॒ऽऊ॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठाः । तेभिः॑ । य॒मः । स॒म्ऽर॒रा॒णः । ह॒वींषि॑ । उ॒शन् । ए॒शत्ऽभिः॑ । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥ये । नः । पूर्वे । पितरः । सोम्यासः । अनुऊहिरे । सोमपीथम् । वसिष्ठाः । तेभिः । यमः । सम्रराणः । हवींषि । उशन् । एशत्भिः । प्रतिकामम् । अत्तु ॥ye | naḥ | pūrve | pitaraḥ | somyāsaḥ | anu-ūhire | soma-pītham | vasiṣṭhāḥ | tebhiḥ | yamaḥ | sam-rarāṇaḥ | havīṃṣi | uśan | eśat-bhiḥ | prati-kāmam | attu