Sukta 10.15
ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः । आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥
ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः । आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः परै॒: पूर्वै॑: पि॒तृभि॑र्घर्म॒सद्भि॑: ॥
yé satyā́so havir-ádo haviṣ-pā́ índreṇa deváiḥ sa-ráthaṃ dádhānāḥ | ā́gne yāhi sahásraṃ deva-vandáiḥ paráiḥ pū́rvaiḥ pitṛ́bhir gharmasádbhiḥ ||
Those true ones who eat the offering and drink the oblation, who with Indra and the gods hold one chariot—O Agni, come with the thousand, the god-praising, the far and ancient Fathers who sit in the glowing heat.
ये । स॒त्यासः॑ । ह॒विः॒ऽअदः॑ । ह॒विः॒ऽपाः । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । दधा॑नाः । आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः॑ । पूर्वैः॑ । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥ये । सत्यासः । हविःअदः । हविःपाः । इन्द्रेण । देवैः । सरथम् । दधानाः । आ । अग्ने । याहि । सहस्रम् । देववन्दैः । परैः । पूर्वैः । पितृभिः । घर्मसत्भिः ॥ye | satyāsaḥ | haviḥ-adaḥ | haviḥ-pāḥ | indreṇa | devaiḥ | sa-ratham | dadhānāḥ | ā | agne | yāhi | sahasram | deva-vandaiḥ | paraiḥ | pūrvaiḥ | pitṛ-bhiḥ | gharmasat-bhiḥ