Sukta 10.15
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य । पु॒त्रेभ्य॑: पितर॒स्तस्य॒ वस्व॒: प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥
āsī́nāso aruṇī́nām upásthe rayíṃ dhatta dāśúṣe mártyāya | putrébhyaḥ pitaraḥ tásya vásvaḥ prá yacchata te ihórjaṃ dadhāta ||
Seated in the lap of the Dawn-lights, place the rayi—fullness of being—into the giver, the mortal. O Fathers, extend that wealth to his children; and here establish in them the nourishing strength.
आसी॑नासः । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य । पु॒त्रेभ्यः॑ । पि॒त॒रः॒ । तस्य॑ । वस्वः॑ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥आसीनासः । अरुणीनाम् । उपस्थे । रयिम् । धत्त । दाशुषे । मर्त्याय । पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । दधात ॥āsīnāsaḥ | aruṇīnām | upa-sthe | rayim | dhatta | dāśuṣe | martyāya | putrebhyaḥ | pitaraḥ | tasya | vasvaḥ | pra | yacchata | te | iha | ūrjam | dadhāta