Sukta 10.15
आहं पितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥
आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥
ā́haṃ pitṝ́nt suvidátrāṃ avitsi napā́taṃ ca vikrámaṇaṃ ca víṣṇoḥ | barhiṣádo yé svadháyā sutásya bhájanta pitvás ta ihā́gamiṣṭhāḥ ||
I have found the Fathers, the well-finding ones; and the Descendant, and the wide-striding power of Viṣṇu. Those who sit upon the sacred grass and partake, by their own right, of the pressed draught—let them come here most readily.
आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ । ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥आ । अहम् । पितॄन् । सुविदत्रान् । अवित्सि । नपातम् । च । विक्रमणम् । च । विष्णोः । बर्हिसदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आगमिष्ठाः ॥ā | aham | pitṝn | su-vidatrān | avitsi | napātam | ca | vi-kramaṇam | ca | viṣṇoḥ | barhi-sadaḥ | ye | svadhayā | sutasya | bhajanta | pitvaḥ | te | iha | āgamiṣṭhāḥ