Sukta 10.15
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
idáṃ pitṛ́bhyo námo astv adyá yé pū́rvāso yá úparāsa ī́yuḥ | yé pārthíve rájasyā́ níṣattā yé vā nū́naṃ suvṛjánāsu vikṣú ||
This reverence to the Fathers be today: those who are the earliest and those who have gone to the higher. Those seated in the earthly realm, and those who now are among the fair-ordered peoples—may all be met by our bowing.
इ॒दम् । पि॒तृऽभ्यः॑ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः । ये । पार्थि॑वे । रज॑सि । आ । निऽस॑त्ताः । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । वि॒क्षु ॥इदम् । पितृभ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः । ये । पार्थिवे । रजसि । आ । निसत्ताः । ये । वा । नूनम् । सुवृजनासु । विक्षु ॥idam | pitṛ-bhyaḥ | namaḥ | astu | adya | ye | pūrvāsaḥ | ye | uparāsaḥ | īyuḥ | ye | pārthive | rajasi | ā | ni-sattāḥ | ye | vā | nūnam | su-vṛjanāsu | vikṣu