Sukta 10.149
पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना । सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥
प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥
paścédám anyád abhavad yájatram ámartyasya bhúvanasya bhūnā́ | su-parṇó aṅgá savitúr garútmān pū́rvo jātáḥ sá u asyā́nu dhárma ||
Afterwards this other (world-order) came to be, adorable, in the vastness of the immortal existence. The fair-winged Garutmān of Savitṛ was born first; he moves according to the law of that (eternal) order—bearing the impulse of truth in his flight.
प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना । सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊँ॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना । सुपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊँ इति । अस्य । अनु । धर्म ॥paścā | idam | anyat | abhavat | yajatram | amartyasya | bhuvanasya | bhūnā | su-parṇaḥ | aṅga | savituḥ | garutmān | pūrvaḥ | jātaḥ | saḥ | oṃ iti | asya | anu | dharma