Sukta 10.148
इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः । तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥
इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शव॑: । तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥
imā́ bráhmendra túbhyaṃ śaṃsi dā́ nṛ́bhyo nṛṇā́ṃ śūra śávaḥ | tébhir bhava sá-kratur yéṣu cā́kann utá trā́yasva gṛṇatá utá stī́n ||
These words of power I proclaim to thee, O Indra: give to the heroic powers of men, O hero, thy might. Become one in will with those in whom thou takest delight; and protect both the singer of the hymn and those who are near and dependent.
इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ । तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृभ्यः । नृणाम् । शूर । शवः । तेभिः । भव । सक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥imā | brahma | indra | tubhyam | śaṃsi | dāḥ | nṛ-bhyaḥ | nṛṇām | śūra | śavaḥ | tebhi ḥ | bhava | sa-kratuḥ | yeṣu | cākan | uta | trāyasva | gṛṇataḥ | uta | stīn