Sukta 10.148
अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः । ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥
अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑: सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥
aryó vā gíro abhy-àrca vidvā́n ṛṣī́ṇāṃ vípraḥ su-matíṃ cakā́naḥ | té syā́ma yé raṇáyanta sómair enótá túbhyaṃ rathóḷha bhakṣáiḥ ||
O noble one, chant forth the words; knowing, a seer among seers, delighting in the right thought. May we be those who gladden thee with Soma, and also with the offerings that nourish thee, O bearer-on-the-chariot: so the mutual joy may be established.
अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः । ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सुमतिम् । चकानः । ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथओळ्ह । भक्षैः ॥aryaḥ | vā | giraḥ | abhi | arca | vidvān | ṛṣīṇām | vipraḥ | su-matim | cakānaḥ | te | syāma | ye | raṇayanta | somaiḥ | enā | uta | tubhyam | ratha-oḷha | bhakṣaiḥ