Sukta 10.148
ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः । गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥
ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒: सूर्ये॑ण सह्याः । गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥
ṛṣvā́s tvám indra śūra jātó dāsī́r víśaḥ sū́ryeṇa sahyā́ḥ | gúhā hitáṃ gúhyaṃ gūḷhám apsú bibhṛ́masi pra-srávaṇe ná sómam ||
Mighty art thou, O Indra the hero, born to subdue the serving powers, helped by the Sun. The secret that is placed in the secrecy, hidden in the waters, thou bearest—like Soma in its outflowing: the concealed delight held within the streams of consciousness.
ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ । गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्सु । बिभृमसि । प्रस्रवणे । न । सोमम् ॥ṛṣvaḥ | tvam | indra | śūra | jātaḥ | dāsīḥ | viśaḥ | sūryeṇa | sahyāḥ | guhā | hitam | guhyam | gūḷham | ap-su | bibhṛmasi | pra-sravaṇe | na | somam