Sukta 10.148
सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् । आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् । आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑: ॥
suṣvāṇā́sa indra stumási tvā sasavā́ṃsaś ca tuvi-nṛ́mṇa vā́jam | ā́ no bhara suvitáṃ yásya cā́kant tmanā́ tanā́ sanuyā́ma tvó-tāḥ ||
O Indra, we who have pressed out (the Soma) praise thee; we who have set it flowing invoke the Vāja of thy vast manly might. Bring to us the happy going, the right success, in which we may win by our own inner being and by our embodied nature, upheld by thee.
सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् । आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥सुस्वानासः । इन्द्र । स्तुमसि । त्वा । ससवांसः । च । तुविनृम्ण । वाजम् । आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऊताः ॥susvānāsaḥ | indra | stumasi | tvā | sasa-vāṃsaḥ | ca | tuvi-nṛmṇa | vājam | ā | naḥ | bhara | suvitam | yasya | cākan | tmanā | tanā | sanuyāma | tvāūtāḥ