Sukta 10.147
स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥
स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥
sa ín nu rāyáḥ su-bhṛ́tasya cākanan mádaṃ yó asya raṃhyáṃ cíketati | tvā́-vṛdhaḥ maghavan dāśvá-dhvaro mákṣū sá vā́jaṃ bharate dhánā nṛ́bhiḥ ||
He indeed now delights in the ecstasy of the well-sustained plenitude (rāyaḥ), who perceives its swift-moving power. O Maghavan, the sacrificer whose offering increases thee quickly brings the Vāja—plenitude of force—and the riches, with the help of the heroic powers within (nṛbhiḥ).
सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति । त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥सः । इत् । नु । रायः । सुभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति । त्वावृधः । मघवन् । दाशुअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृभिः ॥saḥ | it | nu | rāyaḥ | su-bhṛtasya | cākanat | madam | yaḥ | asya | raṃhyam | ciketati | tvāvṛdhaḥ | magha-van | dāśu-adhvaraḥ | makṣu | saḥ | vājam | bharate | dhanā | nṛ-bhiḥ