Sukta 10.147
त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः । त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥
त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥
tváṃ śárdhāya mahinā́ gṛṇānó urú kṛdhi maghavan chagdhí rāyáḥ | tváṃ no mitró váruṇo ná māyī́ pitvó ná dasma dayase vi-bhaktā́ ||
O Maghavan, praised with thy greatness for our company, widen our field and grant us the plenitude. For us thou becomest like Mitra and Varuṇa—wise in power of ordering, not a deceiver; like a generous father, O wonderful one, thou compassionately apportionest the shares.
त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः । त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघवन् । शग्धि । रायः । त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विभक्ता ॥tvam | śardhāya | mahinā | gṛṇānaḥ | uru | kṛdhi | magha-van | śagdhi | rāyaḥ | tvam | naḥ | mitraḥ | varuṇaḥ | na | māyī | pitvaḥ | na | dasma | dayase | vi-bhaktā