Sukta 10.147
त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः । त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥
त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः । त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥
tváṃ māyā́bhir anavádya māyínaṃ śravasyatā́ mánasā vṛtrám ardayaḥ | tvā́m ín naro vṛṇate gáviṣṭiṣu tvā́ṃ víśvāsu havyā́sv íṣṭiṣu ||
You, flawless one, with your powers of formation smote the cunning wielder of formations, Vṛtra, by a mind that seeks the glory. Men choose you in the battles for the Light; they choose you in all offerings and acts of sacrifice.
त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒य॒ । त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गवि॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दय । त्वाम् । इत् । नरः । वृणते । गविष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥tvam | māyābhiḥ | anavadya | māyinam | śravasyatā | manasā | vṛtram | ardaya | tvām | it | naraḥ | vṛṇate | gaviṣṭiṣu | tvām | viśvāsu | havyāsu | iṣṭiṣu