Sukta 10.145
अहमस्मि सहमानाथ त्वमसि सासहिः । उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥
अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥
ahám asmi sáhamānā átha tvám asi sāsahíḥ | ubhé sahasvatī bhūtvī́ sapátnīṃ me sahāvahai ||
I am the one who bears and prevails; and thou art the one who overcomes. Becoming both of us mighty in force, let us together carry away my rival division.
अ॒हम् । अ॒स्मि॒ । सह॑माना । अथ॑ । त्वम् । अ॒सि॒ । स॒स॒हिः । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वी । स॒ऽप्त्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥अहम् । अस्मि । सहमाना । अथ । त्वम् । असि । ससहिः । उभे इति । सहस्वती इति । भूत्वी । सप्त्नीम् । मे । सहावहै ॥aham | asmi | sahamānā | atha | tvam | asi | sasahiḥ | ubhe iti | sahasvatī iti | bhūtvī | sa-ptnīm | me | sahāvahai