Sukta 10.141
इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे । यथा॑ न॒: सर्व॒ इज्जन॒: संग॑त्यां सु॒मना॒ अस॑त् ॥
indravāyū́ bṛ́haspátiṃ suhávehá havāmahe | yáthā naḥ sárva íj jánaḥ sáṃgatyāṃ sumánā́ ásat ||
Indra-and-Vāyu and Bṛhaspati—easy to call—we invoke here, so that in our coming together all our people may become of one good mind and consenting will.
इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒म॒हे॒ । यथा॑ । नः॒ । सर्वः॑ । इत् । जनः॑ । सम्ऽग॑त्याम् । सु॒ऽमनाः॑ । अस॑त् ॥इन्द्रवायू इति । बृहस्पतिम् । सुहवा । इह । हवामहे । यथा । नः । सर्वः । इत् । जनः । सम्गत्याम् । सुमनाः । असत् ॥indravāyū iti | bṛhaspatim | su-havā | iha | havāmahe | yathā | naḥ | sarvaḥ | it | janaḥ | sam-gatyām | su-manāḥ | asat