Sukta 10.141
सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥
sómaṃ rājā́nam ávase ’gníṃ gīrbhír havāmahe | ādityā́n víṣṇuṃ sū́ryaṃ brahmā́ṇaṃ ca bṛ́haspátim ||
For our help we call Soma the King and Agni with our illumined utterances; we call the Ādityas, Vishnu, Surya, and Brahmāṇa, and Bṛhaspati—powers that widen, uphold, and reveal the truth-consciousness within us.
सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ । आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥सोमम् । राजानम् । अवसे । अग्निम् । गीःभिः । हवामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥somam | rājānam | avase | agnim | gīḥ-bhiḥ | havāmahe | ādityān | viṣṇum | sūryam | brahmāṇam | ca | bṛhaspatim