Sukta 10.140
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥
irajyánn agne prathayasva jantúbhir asmē rā́yo amartya | sá darśatásya vápuso ví rājasi pṛṇákṣi sānasíṃ krátum ||
O Agni, glowing with aspiration, widen thyself with the peoples in us, O immortal, for our plenitudes. Thou shinest out with the visible beauty of thy form; thou fillest the winning will, the effective power of the work.
इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तुऽभिः॑ । अ॒स्मे इति॑ । रायः॑ । अ॒म॒र्त्य॒ । सः । द॒र्श॒तस्य॑ । वपु॑षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि॑ । सा॒न॒सिम् । क्रतु॑म् ॥इरज्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मे इति । रायः । अमर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । सानसिम् । क्रतुम् ॥irajyan | agne | prathayasva | jantu-bhiḥ | asme iti | rāyaḥ | amartya | saḥ | darśatasya | vapuṣaḥ | vi | rājasi | pṛṇakṣi | sānasim | kratum