Sukta 10.140
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः । त्वे इष॒: सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥
ū́rjo napāj jāta-vedaḥ suśastíbhir mándasva dhītíbhir hitáḥ | tvé íṣaḥ sáṃ dadhur bhū́ri-varpasaś citróutayo vā́ma-jātāḥ ||
O child of Energy, O knower of births, grow glad by our noble affirmations, set firm by our thought. In thee the impulsions are gathered together—many-formed, richly radiant, of varied help, born of the Delight.
ऊर्जः॑ । न॒पा॒त् । जा॒त॒ऽवे॒दः॒ । सु॒श॒स्तिऽभिः॑ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः । त्वे इति॑ । इषः॑ । सम् । द॒धुः॒ । भूरि॑ऽवर्पसः । चि॒त्रऽऊ॑तयः । वा॒मऽजा॑ताः ॥ऊर्जः । नपात् । जातवेदः । सुशस्तिभिः । मन्दस्व । धीतिभिः । हितः । त्वे इति । इषः । सम् । दधुः । भूरिवर्पसः । चित्रऊतयः । वामजाताः ॥ūrjaḥ | napāt | jāta-vedaḥ | suśasti-bhiḥ | mandasva | dhīti-bhiḥ | hitaḥ | tve iti | iṣaḥ | sam | dadhuḥ | bhūri-varpasaḥ | citra-ūtayaḥ | vāma-jātāḥ